rigveda/10/109/3
ऋषिः - जुहूर्ब्रह्मजाया, ऊर्ध्वनाभा वा ब्राह्मः
देवता - विश्वेदेवा:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
हस्ते॑न । ए॒व । ग्रा॒ह्यः॑ । आ॒ऽधिः । अ॒स्याः॒ । ब्र॒ह्म॒ऽजा॒या । इ॒यम् । इति॑ । च॒ । इत् । अवो॑चत् । न । दू॒ताय॑ । प्र॒ऽह्ये॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥
हस्तेन । एव । ग्राह्यः । आऽधिः । अस्याः । ब्रह्मऽजाया । इयम् । इति । च । इत् । अवोचत् । न । दूताय । प्रऽह्ये । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य ॥