rigveda/10/102/6
ऋषिः - मुद्गलो भार्म्यश्वः
देवता - द्रुघण इन्द्रो वा
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
क॒र्कऽदे॑वे । वृ॒ष॒भः । आ॒सी॒त् । अवा॑वचीत् । सार॑थिः । अ॒स्य॒ । के॒शी । दुधेः॑ । यु॒क्तस्य॑ । द्रव॑तः । स॒ह । अन॑सा । ऋ॒च्छन्ति॑ । स्म॒ । निः॒ऽपदः॑ । मु॒द्ग॒लानी॑म् ॥
कर्कऽदेवे । वृषभः । आसीत् । अवावचीत् । सारथिः । अस्य । केशी । दुधेः । युक्तस्य । द्रवतः । सह । अनसा । ऋच्छन्ति । स्म । निःऽपदः । मुद्गलानीम् ॥