ऋषिः - यमी वैवस्वती

देवता - यमो वैवस्वतः

छन्दः - पादनिचृत्त्रिष्टुप्

स्वरः - धैवतः

PreviousNext
स्वर सहित मन्त्र

किं भ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निॠ॑तिर्नि॒गच्छा॑त् । काम॑मूता ब॒ह्वे॒३॒॑तद्र॑पामि त॒न्वा॑ मे त॒न्वं१॒॑ सं पि॑पृग्धि ॥

स्वर सहित पद पाठ

किम् । भ्राता॑ । अ॒स॒त् । यत् । अ॒ना॒थम् । भवा॑ति । किम् । ऊँ॒ इति॑ । स्वसा॑ । यत् । निःऽऋ॑तिः । नि॒ऽगच्छा॑त् । काम॑ऽमूता । ब॒हु । ए॒तत् । र॒पा॒मि॒ । त॒न्वा॑ । मे॒ । त॒न्व॑म् । सम् । पि॒पृ॒ग्धि॒ ॥


स्वर रहित मन्त्र

किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निॠतिर्निगच्छात् । काममूता बह्वे३तद्रपामि तन्वा मे तन्वं१ सं पिपृग्धि ॥


स्वर रहित पद पाठ

किम् । भ्राता । असत् । यत् । अनाथम् । भवाति । किम् । ऊँ इति । स्वसा । यत् । निःऽऋतिः । निऽगच्छात् । कामऽमूता । बहु । एतत् । रपामि । तन्वा । मे । तन्वम् । सम् । पिपृग्धि ॥