rigveda/1/97/2

सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे। अप॑ न॒: शोशु॑चद॒घम् ॥

सु॒ऽक्षे॒त्रि॒या । सु॒गा॒तु॒ऽया । व॒सु॒ऽया । च॒ । य॒जा॒म॒हे॒ । अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥

ऋषिः - कुत्सः आङ्गिरसः

देवता - अग्निः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे। अप॑ न॒: शोशु॑चद॒घम् ॥

स्वर सहित पद पाठ

सु॒ऽक्षे॒त्रि॒या । सु॒गा॒तु॒ऽया । व॒सु॒ऽया । च॒ । य॒जा॒म॒हे॒ । अप॑ । नः॒ । शोशु॑चत् । अ॒घम् ॥


स्वर रहित मन्त्र

सुक्षेत्रिया सुगातुया वसूया च यजामहे। अप न: शोशुचदघम् ॥


स्वर रहित पद पाठ

सुऽक्षेत्रिया । सुगातुऽया । वसुऽया । च । यजामहे । अप । नः । शोशुचत् । अघम् ॥