rigveda/1/94/9
ऋषिः - कुत्सः आङ्गिरसः
देवता - अग्निः
छन्दः - विराड्जगती
स्वरः - निषादः
व॒धैः । दुः॒ऽशंसा॑न् । अप॑ । दुः॒ऽध्यः॑ । ज॒हि॒ । दू॒रे । वा॒ । ये । अन्ति॑ । वा॒ । के । चि॒त् । अ॒त्रिणः॑ । अथ॑ । य॒ज्ञाय॑ । गृ॒ण॒ते॒ । सु॒ऽगम् । कृ॒धि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
वधैः । दुःऽशंसान् । अप । दुःऽध्यः । जहि । दूरे । वा । ये । अन्ति । वा । के । चित् । अत्रिणः । अथ । यज्ञाय । गृणते । सुऽगम् । कृधि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥