rigveda/1/94/15
ऋषिः - कुत्सः आङ्गिरसः
देवता - अग्निः
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
यस्मै॑ । त्वम् । सु॒ऽद्र॒वि॒णः॒ । ददा॑शः । अ॒ना॒गाः॒ऽत्वम् । अ॒दि॒ते॒ । स॒र्वऽता॑ता । यम् । भ॒द्रेण॑ । शव॑सा । चो॒दया॑सि । प्र॒जाऽव॑ता । राध॑सा । ते॒ । स्या॒म॒ ॥
यस्मै । त्वम् । सुऽद्रविणः । ददाशः । अनागाःऽत्वम् । अदिते । सर्वऽताता । यम् । भद्रेण । शवसा । चोदयासि । प्रजाऽवता । राधसा । ते । स्याम ॥