rigveda/1/93/6

आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रे॑:। अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥

आ । अ॒न्यम् । दि॒वः । मा॒त॒रिश्वा॑ । ज॒भा॒र॒ । अम॑थ्नात् । अ॒न्यम् । परि॑ । श्ये॒नः । अद्रेः॑ । अग्नी॑षोमा । ब्रह्म॑णा । व॒वृ॒धा॒ना । उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊँ॒ इति॑ । लो॒कम् ॥

ऋषिः - गोतमो राहूगणपुत्रः

देवता - अग्नीषोमौ

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रे॑:। अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥

स्वर सहित पद पाठ

आ । अ॒न्यम् । दि॒वः । मा॒त॒रिश्वा॑ । ज॒भा॒र॒ । अम॑थ्नात् । अ॒न्यम् । परि॑ । श्ये॒नः । अद्रेः॑ । अग्नी॑षोमा । ब्रह्म॑णा । व॒वृ॒धा॒ना । उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊँ॒ इति॑ । लो॒कम् ॥


स्वर रहित मन्त्र

आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रे:। अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥


स्वर रहित पद पाठ

आ । अन्यम् । दिवः । मातरिश्वा । जभार । अमथ्नात् । अन्यम् । परि । श्येनः । अद्रेः । अग्नीषोमा । ब्रह्मणा । ववृधाना । उरुम् । यज्ञाय । चक्रथुः । ऊँ इति । लोकम् ॥