rigveda/1/92/2

उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत। अक्र॑न्नु॒षासो॑ व॒युना॑नि पू॒र्वथा॒ रुश॑न्तं भा॒नुमरु॑षीरशिश्रयुः ॥

उत् । अ॒प॒प्त॒न् । अ॒रु॒णाः । भा॒नवः॑ । वृथा॑ । सु॒ऽआ॒युजः॑ । अरु॑षीः । गाः । अ॒यु॒क्ष॒त॒ । अक्र॑न् । उ॒षसः॑ । व॒युना॑नि । पू॒र्वथा॑ । रुश॑न्तम् । भा॒नुम् । अरु॑षीः । अ॒शि॒श्र॒युः॒ ॥

ऋषिः - गोतमो राहूगणः

देवता - उषाः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत। अक्र॑न्नु॒षासो॑ व॒युना॑नि पू॒र्वथा॒ रुश॑न्तं भा॒नुमरु॑षीरशिश्रयुः ॥

स्वर सहित पद पाठ

उत् । अ॒प॒प्त॒न् । अ॒रु॒णाः । भा॒नवः॑ । वृथा॑ । सु॒ऽआ॒युजः॑ । अरु॑षीः । गाः । अ॒यु॒क्ष॒त॒ । अक्र॑न् । उ॒षसः॑ । व॒युना॑नि । पू॒र्वथा॑ । रुश॑न्तम् । भा॒नुम् । अरु॑षीः । अ॒शि॒श्र॒युः॒ ॥


स्वर रहित मन्त्र

उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत। अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥


स्वर रहित पद पाठ

उत् । अपप्तन् । अरुणाः । भानवः । वृथा । सुऽआयुजः । अरुषीः । गाः । अयुक्षत । अक्रन् । उषसः । वयुनानि । पूर्वथा । रुशन्तम् । भानुम् । अरुषीः । अशिश्रयुः ॥