rigveda/1/91/19

या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम्। ग॒य॒स्फान॑: प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥

या । ते॒ । धामा॑नि । ह॒विषा॑ । यज॑न्ति । ता । ते॒ । विश्वा॑ । प॒रि॒ऽभूः । अ॒स्तु॒ । य॒ज्ञम् । ग॒य॒ऽस्फानः॑ । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ । अवी॑रऽहा । प्र । च॒र॒ । सो॒म॒ । दुर्या॑न् ॥

ऋषिः - गोतमो राहूगणः

देवता - सोमः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम्। ग॒य॒स्फान॑: प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ॥

स्वर सहित पद पाठ

या । ते॒ । धामा॑नि । ह॒विषा॑ । यज॑न्ति । ता । ते॒ । विश्वा॑ । प॒रि॒ऽभूः । अ॒स्तु॒ । य॒ज्ञम् । ग॒य॒ऽस्फानः॑ । प्र॒ऽतर॑णः । सु॒ऽवीरः॑ । अवी॑रऽहा । प्र । च॒र॒ । सो॒म॒ । दुर्या॑न् ॥


स्वर रहित मन्त्र

या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम्। गयस्फान: प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यान् ॥


स्वर रहित पद पाठ

या । ते । धामानि । हविषा । यजन्ति । ता । ते । विश्वा । परिऽभूः । अस्तु । यज्ञम् । गयऽस्फानः । प्रऽतरणः । सुऽवीरः । अवीरऽहा । प्र । चर । सोम । दुर्यान् ॥