rigveda/1/91/13

सोम॑ रार॒न्धि नो॑ हृ॒दि गावो॒ न यव॑से॒ष्वा। मर्य॑ इव॒ स्व ओ॒क्ये॑ ॥

सोम॑ । र॒र॒न्धि । नः॒ । हृ॒दि । गावः॑ । न । यव॑सेषु । आ । मर्यः॑ऽइव स्वे । ओ॒क्ये॑ ॥

ऋषिः - गोतमो राहूगणः

देवता - सोमः

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

सोम॑ रार॒न्धि नो॑ हृ॒दि गावो॒ न यव॑से॒ष्वा। मर्य॑ इव॒ स्व ओ॒क्ये॑ ॥

स्वर सहित पद पाठ

सोम॑ । र॒र॒न्धि । नः॒ । हृ॒दि । गावः॑ । न । यव॑सेषु । आ । मर्यः॑ऽइव स्वे । ओ॒क्ये॑ ॥


स्वर रहित मन्त्र

सोम रारन्धि नो हृदि गावो न यवसेष्वा। मर्य इव स्व ओक्ये ॥


स्वर रहित पद पाठ

सोम । ररन्धि । नः । हृदि । गावः । न । यवसेषु । आ । मर्यःऽइव स्वे । ओक्ये ॥