rigveda/1/89/9
ऋषिः - गोतमो राहूगणः
देवता - विश्वेदेवा:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
श॒तम् । इत् । नु । श॒रदः॑ । अन्ति॑ । दे॒वाः॒ । यत्र॑ । नः॒ । च॒क्र । ज॒रस॑म् । त॒नूना॑म् । पु॒त्रासः॑ । यत्र॑ । पि॒तरः॑ । भव॑न्ति । मा । नः॒ । म॒ध्या । रि॒रि॒ष॒त॒ । आयुः॑ । गन्तोः॑ ॥
शतम् । इत् । नु । शरदः । अन्ति । देवाः । यत्र । नः । चक्र । जरसम् । तनूनाम् । पुत्रासः । यत्र । पितरः । भवन्ति । मा । नः । मध्या । रिरिषत । आयुः । गन्तोः ॥