rigveda/1/87/2
ऋषिः - गोतमो राहूगणपुत्रः
देवता - मरुतः
छन्दः - विराड्जगती
स्वरः - निषादः
उ॒प॒ऽह्व॒रेषु॒ । यत् । अचि॑ध्वम् । य॒यिम् । वयः॑ऽइव । म॒रु॒तः॒ । केन॑ । चि॒त् । प॒था । श्चोत॑न्ति । कोशाः॑ । उप॑ । वः॒ । रथे॑षु । आ । घृ॒तम् । उ॒क्ष॒त॒ । मधु॑ऽवर्ण॑म् । अर्च॑ते ॥
उपऽह्वरेषु । यत् । अचिध्वम् । ययिम् । वयःऽइव । मरुतः । केन । चित् । पथा । श्चोतन्ति । कोशाः । उप । वः । रथेषु । आ । घृतम् । उक्षत । मधुऽवर्णम् । अर्चते ॥