rigveda/1/84/16
ऋषिः - गोतमो राहूगणः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
कः । अ॒द्य । यु॒ङ्क्ते॒ । धु॒रि । गाः । ऋ॒तस्य॑ । शिमी॑ऽवतः । भा॒मिनः॑ । दुःऽहृ॒णा॒यून् । आ॒सन्ऽइ॑षून् । ह॒त्सु॒ऽअसः॑ । म॒य॒ऽभून् । यः । ए॒षा॒म् । भृ॒त्याम् । ऋ॒णध॑त् । सः । जी॒वा॒त् ॥
कः । अद्य । युङ्क्ते । धुरि । गाः । ऋतस्य । शिमीऽवतः । भामिनः । दुःऽहृणायून् । आसन्ऽइषून् । हत्सुऽअसः । मयऽभून् । यः । एषाम् । भृत्याम् । ऋणधत् । सः । जीवात् ॥