rigveda/1/81/4
ऋषिः - गोतमो राहूगणः
देवता - इन्द्र:
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
क्रत्वा॑ । म॒हान् । अ॒नु॒ऽस्व॒धम् । भी॒मः । आ । व॒वृ॒धे॒ । शवः॑ । श्रि॒ये । ऋ॒ष्वः । उ॒पा॒कयोः॑ । नि । शि॒प्री । हरि॑ऽवान् । द॒धे॒ । हस्त॑योः । वज्र॑म् । आ॒य॒सम् ॥
क्रत्वा । महान् । अनुऽस्वधम् । भीमः । आ । ववृधे । शवः । श्रिये । ऋष्वः । उपाकयोः । नि । शिप्री । हरिऽवान् । दधे । हस्तयोः । वज्रम् । आयसम् ॥