rigveda/1/80/12

न वेप॑सा॒ न त॑न्य॒तेन्द्रं॑ वृ॒त्रो वि बी॑भयत्। अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥

न । वेप॑सा । न । त॒न्य॒ता । इन्द्र॑म् । वृ॒त्रः । वि । बी॒भ॒य॒त् । अ॒भि । ए॒न॒म् । वज्रः॑ । आय॒सः । स॒हस्र॑ऽभृष्टिः । आ॒या॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥

ऋषिः - गोतमो राहूगणः

देवता - इन्द्र:

छन्दः - भुरिग्बृहती

स्वरः - मध्यमः

स्वर सहित मन्त्र

न वेप॑सा॒ न त॑न्य॒तेन्द्रं॑ वृ॒त्रो वि बी॑भयत्। अ॒भ्ये॑नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥

स्वर सहित पद पाठ

न । वेप॑सा । न । त॒न्य॒ता । इन्द्र॑म् । वृ॒त्रः । वि । बी॒भ॒य॒त् । अ॒भि । ए॒न॒म् । वज्रः॑ । आय॒सः । स॒हस्र॑ऽभृष्टिः । आ॒या॒त॒ । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥


स्वर रहित मन्त्र

न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत्। अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम् ॥


स्वर रहित पद पाठ

न । वेपसा । न । तन्यता । इन्द्रम् । वृत्रः । वि । बीभयत् । अभि । एनम् । वज्रः । आयसः । सहस्रऽभृष्टिः । आयात । अर्चन् । अनु । स्वऽराज्यम् ॥