rigveda/1/79/12
ऋषिः - गोतमो राहूगणः
देवता - अग्निः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
स॒ह॒स्र॒ऽअ॒क्षः । विऽच॑र्षणिः । अ॒ग्निः । रक्षां॑सि । से॒ध॒ति॒ । होता॑ । गृ॒णी॒ते॒ । उ॒क्थ्यः॑ ॥
सहस्रऽअक्षः । विऽचर्षणिः । अग्निः । रक्षांसि । सेधति । होता । गृणीते । उक्थ्यः ॥