rigveda/1/79/10

प्र पू॒तास्ति॒ग्मशो॑चिषे॒ वाचो॑ गोतमा॒ग्नये॑। भर॑स्व सुम्न॒युर्गिरः॑ ॥

प्र । पू॒ताः । ति॒ग्मऽशो॑चिषे । वाचः॑ । गोतम । अ॒ग्नये॑ । भर॑स्व । सु॒म्न॒ऽयुः । गिरः॑ ॥

ऋषिः - गोतमो राहूगणः

देवता - अग्निः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

प्र पू॒तास्ति॒ग्मशो॑चिषे॒ वाचो॑ गोतमा॒ग्नये॑। भर॑स्व सुम्न॒युर्गिरः॑ ॥

स्वर सहित पद पाठ

प्र । पू॒ताः । ति॒ग्मऽशो॑चिषे । वाचः॑ । गोतम । अ॒ग्नये॑ । भर॑स्व । सु॒म्न॒ऽयुः । गिरः॑ ॥


स्वर रहित मन्त्र

प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये। भरस्व सुम्नयुर्गिरः ॥


स्वर रहित पद पाठ

प्र । पूताः । तिग्मऽशोचिषे । वाचः । गोतम । अग्नये । भरस्व । सुम्नऽयुः । गिरः ॥