rigveda/1/73/9

अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन् वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोताः॑। ई॒शा॒नासः॑ पितृवि॒त्तस्य॑ रा॒यो वि सू॒रयः॑ श॒तहि॑मा नो अश्युः ॥

अर्व॑त्ऽभिः । अ॒ग्ने॒ । अर्व॑तः । नृभिः॑ । नॄन् । वी॒रैः । वी॒रान् । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः । ई॒शा॒नासः॑ । पि॒तृ॒ऽवि॒त्तस्य॑ । रा॒यः । वि । सू॒रयः॑ । श॒तऽहि॑माः । नः॒ । अ॒श्युः॒ ॥

ऋषिः - पराशरः शाक्तः

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन् वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोताः॑। ई॒शा॒नासः॑ पितृवि॒त्तस्य॑ रा॒यो वि सू॒रयः॑ श॒तहि॑मा नो अश्युः ॥

स्वर सहित पद पाठ

अर्व॑त्ऽभिः । अ॒ग्ने॒ । अर्व॑तः । नृभिः॑ । नॄन् । वी॒रैः । वी॒रान् । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः । ई॒शा॒नासः॑ । पि॒तृ॒ऽवि॒त्तस्य॑ । रा॒यः । वि । सू॒रयः॑ । श॒तऽहि॑माः । नः॒ । अ॒श्युः॒ ॥


स्वर रहित मन्त्र

अर्वद्भिरग्ने अर्वतो नृभिर्नॄन् वीरैर्वीरान्वनुयामा त्वोताः। ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥


स्वर रहित पद पाठ

अर्वत्ऽभिः । अग्ने । अर्वतः । नृभिः । नॄन् । वीरैः । वीरान् । वनुयाम । त्वाऽऊताः । ईशानासः । पितृऽवित्तस्य । रायः । वि । सूरयः । शतऽहिमाः । नः । अश्युः ॥