rigveda/1/72/7

वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः। अ॒न्त॒र्वि॒द्वाँ अध्व॑नो देव॒याना॒नत॑न्द्रो दू॒तो अ॑भवो हवि॒र्वाट् ॥

वि॒द्वान् । अ॒ग्ने॒ । व॒युना॑नि । क्षि॒ती॒नाम् । वि । आ॒नु॒षक् । शु॒रुधः॑ । जी॒वसे॑ । धाः॒ । अ॒न्तः॒ऽवि॒द्वान् । अध्व॑नः । दे॒व॒ऽयाना॑न् । अत॑न्द्रः । दू॒तः । अ॒भ॒वः॒ । ह॒विः॒ऽवाट् ॥

ऋषिः - पराशरः शाक्तः

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः। अ॒न्त॒र्वि॒द्वाँ अध्व॑नो देव॒याना॒नत॑न्द्रो दू॒तो अ॑भवो हवि॒र्वाट् ॥

स्वर सहित पद पाठ

वि॒द्वान् । अ॒ग्ने॒ । व॒युना॑नि । क्षि॒ती॒नाम् । वि । आ॒नु॒षक् । शु॒रुधः॑ । जी॒वसे॑ । धाः॒ । अ॒न्तः॒ऽवि॒द्वान् । अध्व॑नः । दे॒व॒ऽयाना॑न् । अत॑न्द्रः । दू॒तः । अ॒भ॒वः॒ । ह॒विः॒ऽवाट् ॥


स्वर रहित मन्त्र

विद्वाँ अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः। अन्तर्विद्वाँ अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥


स्वर रहित पद पाठ

विद्वान् । अग्ने । वयुनानि । क्षितीनाम् । वि । आनुषक् । शुरुधः । जीवसे । धाः । अन्तःऽविद्वान् । अध्वनः । देवऽयानान् । अतन्द्रः । दूतः । अभवः । हविःऽवाट् ॥