rigveda/1/63/2

आ यद्धरी॑ इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त्। येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥

आ । यत् । हरी॒ इति॑ । इ॒न्द्र॒ । विऽव्र॑ता । वेः । आ । ते॒ । वज्र॑म् । ज॒रि॒ता । बा॒ह्वोः । धा॒त् । येन॑ । अ॒वि॒ह॒र्य॒त॒क्र॒तो॒ इत्य॑विहर्यतऽक्रतो । अ॒मित्रा॑न् । पुरः॑ । इ॒ष्णासि॑ । पु॒रु॒ऽहू॒त॒ । पू॒र्वीः ॥

ऋषिः - नोधा गौतमः

देवता - इन्द्र:

छन्दः - विराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

आ यद्धरी॑ इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त्। येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥

स्वर सहित पद पाठ

आ । यत् । हरी॒ इति॑ । इ॒न्द्र॒ । विऽव्र॑ता । वेः । आ । ते॒ । वज्र॑म् । ज॒रि॒ता । बा॒ह्वोः । धा॒त् । येन॑ । अ॒वि॒ह॒र्य॒त॒क्र॒तो॒ इत्य॑विहर्यतऽक्रतो । अ॒मित्रा॑न् । पुरः॑ । इ॒ष्णासि॑ । पु॒रु॒ऽहू॒त॒ । पू॒र्वीः ॥


स्वर रहित मन्त्र

आ यद्धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात्। येनाविहर्यतक्रतो अमित्रान्पुर इष्णासि पुरुहूत पूर्वीः ॥


स्वर रहित पद पाठ

आ । यत् । हरी इति । इन्द्र । विऽव्रता । वेः । आ । ते । वज्रम् । जरिता । बाह्वोः । धात् । येन । अविहर्यतक्रतो इत्यविहर्यतऽक्रतो । अमित्रान् । पुरः । इष्णासि । पुरुऽहूत । पूर्वीः ॥