rigveda/1/62/11

स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः। पतिं॒ न पत्नी॑रुश॒तीरु॒शन्तं॑ स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ॥

स॒ना॒ऽयुवः॑ । नम॑सा । नव्यः॑ । अ॒र्कैः । व॒सु॒ऽयवः॑ । म॒तयः॑ । द॒स्म॒ । द॒द्रुः॒ । पति॑म् । न । पत्नीः॑ । उ॒श॒तीः । उ॒शन्त॑म् । स्पृ॒शन्ति॑ । त्वा॒ । श॒व॒सा॒ऽव॒न् । म॒नी॒षाः ॥

ऋषिः - नोधा गौतमः

देवता - इन्द्र:

छन्दः - आर्षीत्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः। पतिं॒ न पत्नी॑रुश॒तीरु॒शन्तं॑ स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ॥

स्वर सहित पद पाठ

स॒ना॒ऽयुवः॑ । नम॑सा । नव्यः॑ । अ॒र्कैः । व॒सु॒ऽयवः॑ । म॒तयः॑ । द॒स्म॒ । द॒द्रुः॒ । पति॑म् । न । पत्नीः॑ । उ॒श॒तीः । उ॒शन्त॑म् । स्पृ॒शन्ति॑ । त्वा॒ । श॒व॒सा॒ऽव॒न् । म॒नी॒षाः ॥


स्वर रहित मन्त्र

सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः। पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः ॥


स्वर रहित पद पाठ

सनाऽयुवः । नमसा । नव्यः । अर्कैः । वसुऽयवः । मतयः । दस्म । दद्रुः । पतिम् । न । पत्नीः । उशतीः । उशन्तम् । स्पृशन्ति । त्वा । शवसाऽवन् । मनीषाः ॥