rigveda/1/60/2

अ॒स्य शासु॑रु॒भया॑सः सचन्ते ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ताः॑। दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ॥

अ॒स्य । शासुः॑ । उ॒भया॑सः । स॒च॒न्ते॒ । ह॒विष्म॑न्तः । उ॒शिजः॑ । ये । च॒ । मर्ताः॑ । दि॒वः । चि॒त् । पूर्वः॑ । नि । अ॒सा॒दि॒ । होता॑ । आ॒ऽपृच्छ्यः॑ । वि॒श्पतिः॑ । वि॒क्षु । वे॒धाः ॥

ऋषिः - नोधा गौतमः

देवता - अग्निः

छन्दः - भुरिक्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

अ॒स्य शासु॑रु॒भया॑सः सचन्ते ह॒विष्म॑न्त उ॒शिजो॒ ये च॒ मर्ताः॑। दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो॑ वि॒श्पति॑र्वि॒क्षु वे॒धाः ॥

स्वर सहित पद पाठ

अ॒स्य । शासुः॑ । उ॒भया॑सः । स॒च॒न्ते॒ । ह॒विष्म॑न्तः । उ॒शिजः॑ । ये । च॒ । मर्ताः॑ । दि॒वः । चि॒त् । पूर्वः॑ । नि । अ॒सा॒दि॒ । होता॑ । आ॒ऽपृच्छ्यः॑ । वि॒श्पतिः॑ । वि॒क्षु । वे॒धाः ॥


स्वर रहित मन्त्र

अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः। दिवश्चित्पूर्वो न्यसादि होतापृच्छ्यो विश्पतिर्विक्षु वेधाः ॥


स्वर रहित पद पाठ

अस्य । शासुः । उभयासः । सचन्ते । हविष्मन्तः । उशिजः । ये । च । मर्ताः । दिवः । चित् । पूर्वः । नि । असादि । होता । आऽपृच्छ्यः । विश्पतिः । विक्षु । वेधाः ॥