rigveda/1/6/5

वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः। अवि॑न्द उ॒स्रिया॒ अनु॑॥

वी॒ळु । चि॒त् । आ॒रु॒ज॒त्नुऽभिः॑ । गुहा॑ । चि॒त् । इ॒न्द्र॒ । वह्नि॑ऽभिः । अवि॑न्दः । उ॒स्रियाः॑ । अनु॑ ॥

ऋषिः - मधुच्छन्दाः वैश्वामित्रः

देवता - मरूत इन्द्रश्च

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः। अवि॑न्द उ॒स्रिया॒ अनु॑॥

स्वर सहित पद पाठ

वी॒ळु । चि॒त् । आ॒रु॒ज॒त्नुऽभिः॑ । गुहा॑ । चि॒त् । इ॒न्द्र॒ । वह्नि॑ऽभिः । अवि॑न्दः । उ॒स्रियाः॑ । अनु॑ ॥


स्वर रहित मन्त्र

वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः। अविन्द उस्रिया अनु॥


स्वर रहित पद पाठ

वीळु । चित् । आरुजत्नुऽभिः । गुहा । चित् । इन्द्र । वह्निऽभिः । अविन्दः । उस्रियाः । अनु ॥