rigveda/1/58/2

आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति। अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥

आ । स्वम् । अद्म॑ । यु॒वमा॑नः । अ॒जरः॑ । तृ॒षु । अ॒वि॒ष्यन् । अ॒त॒सेषु॑ । ति॒ष्ठ॒ति॒ । अत्यः॑ । न । पृ॒ष्ठम् । प्रु॒षि॒तस्य॑ । रो॒च॒ते॒ । दि॒वः । न । सानु॑ । स्त॒नय॑न् । अ॒चि॒क्र॒द॒त् ॥

ऋषिः - नोधा गौतमः

देवता - अग्निः

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति। अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥

स्वर सहित पद पाठ

आ । स्वम् । अद्म॑ । यु॒वमा॑नः । अ॒जरः॑ । तृ॒षु । अ॒वि॒ष्यन् । अ॒त॒सेषु॑ । ति॒ष्ठ॒ति॒ । अत्यः॑ । न । पृ॒ष्ठम् । प्रु॒षि॒तस्य॑ । रो॒च॒ते॒ । दि॒वः । न । सानु॑ । स्त॒नय॑न् । अ॒चि॒क्र॒द॒त् ॥


स्वर रहित मन्त्र

आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति। अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत् ॥


स्वर रहित पद पाठ

आ । स्वम् । अद्म । युवमानः । अजरः । तृषु । अविष्यन् । अतसेषु । तिष्ठति । अत्यः । न । पृष्ठम् । प्रुषितस्य । रोचते । दिवः । न । सानु । स्तनयन् । अचिक्रदत् ॥