rigveda/1/57/3
ऋषिः - सव्य आङ्गिरसः
देवता - इन्द्र:
छन्दः - विराड्जगती
स्वरः - निषादः
अ॒स्मै । भी॒माय॑ । नम॑सा । सम् । अ॒ध्व॒रे । उषः॑ । न । शु॒भ्रे॒ । आ । भ॒र॒ । पनी॑यसे । यस्य॑ । धाम॑ । श्रव॑से । नाम॑ । इ॒न्द्रि॒यम् । ज्योतिः॑ । अका॑रि । ह॒रितः॑ । न । अय॑से ॥
अस्मै । भीमाय । नमसा । सम् । अध्वरे । उषः । न । शुभ्रे । आ । भर । पनीयसे । यस्य । धाम । श्रवसे । नाम । इन्द्रियम् । ज्योतिः । अकारि । हरितः । न । अयसे ॥