rigveda/1/55/4

स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम्। वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥

सः । इत् । वने॑ । न॒म॒स्युऽभिः॑ । व॒च॒स्य॒ते॒ । चारु॑ । जने॑षु । प्र॒ऽब्रु॒वा॒णः । इ॒न्द्रि॒यम् । वृषा॑ । छन्दुः॑ । भ॒व॒ति॒ । ह॒र्य॒तः । वृषा॑ । क्षेमे॑ण । धेना॑म् । म॒घवा॑ । यत् । इन्व॑ति ॥

ऋषिः - सव्य आङ्गिरसः

देवता - इन्द्र:

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम्। वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥

स्वर सहित पद पाठ

सः । इत् । वने॑ । न॒म॒स्युऽभिः॑ । व॒च॒स्य॒ते॒ । चारु॑ । जने॑षु । प्र॒ऽब्रु॒वा॒णः । इ॒न्द्रि॒यम् । वृषा॑ । छन्दुः॑ । भ॒व॒ति॒ । ह॒र्य॒तः । वृषा॑ । क्षेमे॑ण । धेना॑म् । म॒घवा॑ । यत् । इन्व॑ति ॥


स्वर रहित मन्त्र

स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम्। वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥


स्वर रहित पद पाठ

सः । इत् । वने । नमस्युऽभिः । वचस्यते । चारु । जनेषु । प्रऽब्रुवाणः । इन्द्रियम् । वृषा । छन्दुः । भवति । हर्यतः । वृषा । क्षेमेण । धेनाम् । मघवा । यत् । इन्वति ॥