rigveda/1/52/9

बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य१॒॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः। यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तयः॒ स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥

बृ॒हत् । स्वऽच॑न्द्रम् । अम॑ऽवत् । यत् । उ॒क्थ्य॑म् । अकृ॑ण्वत । भि॒यसा॑ । रोह॑णम् । दि॒वः । यत् । मानु॑षऽप्रधनाः । इन्द्र॑म् । ऊ॒तयः॑ । स्वः॑ । नृ॒ऽसाचः॑ । म॒रुतः॑ । अम॑दन् । अनु॑ ॥

ऋषिः - सव्य आङ्गिरसः

देवता - इन्द्र:

छन्दः - स्वराट्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य१॒॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः। यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तयः॒ स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥

स्वर सहित पद पाठ

बृ॒हत् । स्वऽच॑न्द्रम् । अम॑ऽवत् । यत् । उ॒क्थ्य॑म् । अकृ॑ण्वत । भि॒यसा॑ । रोह॑णम् । दि॒वः । यत् । मानु॑षऽप्रधनाः । इन्द्र॑म् । ऊ॒तयः॑ । स्वः॑ । नृ॒ऽसाचः॑ । म॒रुतः॑ । अम॑दन् । अनु॑ ॥


स्वर रहित मन्त्र

बृहत्स्वश्चन्द्रममवद्यदुक्थ्य१मकृण्वत भियसा रोहणं दिवः। यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु ॥


स्वर रहित पद पाठ

बृहत् । स्वऽचन्द्रम् । अमऽवत् । यत् । उक्थ्यम् । अकृण्वत । भियसा । रोहणम् । दिवः । यत् । मानुषऽप्रधनाः । इन्द्रम् । ऊतयः । स्वः । नृऽसाचः । मरुतः । अमदन् । अनु ॥