rigveda/1/52/6

परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत्। वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ॥

परि॑ । ई॒म् । घृ॒णा । च॒र॒ति॒ । ति॒त्वि॒षे । शवः॑ । अ॒पः । वृ॒त्वी । रज॑सः । बु॒ध्नम् । आ । अ॒श॒य॒त् । वृ॒त्रस्य॑ । यत् । प्र॒व॒णे । दुः॒ऽगृभि॑श्वनः । नि॒ऽज॒घन्थ॑ । हन्वोः॑ । इ॒न्द्र॒ । त॒न्य॒तुम् ॥

ऋषिः - सव्य आङ्गिरसः

देवता - इन्द्र:

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत्। वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ॥

स्वर सहित पद पाठ

परि॑ । ई॒म् । घृ॒णा । च॒र॒ति॒ । ति॒त्वि॒षे । शवः॑ । अ॒पः । वृ॒त्वी । रज॑सः । बु॒ध्नम् । आ । अ॒श॒य॒त् । वृ॒त्रस्य॑ । यत् । प्र॒व॒णे । दुः॒ऽगृभि॑श्वनः । नि॒ऽज॒घन्थ॑ । हन्वोः॑ । इ॒न्द्र॒ । त॒न्य॒तुम् ॥


स्वर रहित मन्त्र

परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत्। वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् ॥


स्वर रहित पद पाठ

परि । ईम् । घृणा । चरति । तित्विषे । शवः । अपः । वृत्वी । रजसः । बुध्नम् । आ । अशयत् । वृत्रस्य । यत् । प्रवणे । दुःऽगृभिश्वनः । निऽजघन्थ । हन्वोः । इन्द्र । तन्यतुम् ॥