rigveda/1/52/4

आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्वः१॒॑ स्वा अ॒भिष्ट॑यः। तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः॒ शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ॥

आ । यम् । पृ॒णन्ति॑ । दि॒वि । सद्म॑ऽबर्हिषः । स॒मु॒द्रम् । न । सु॒ऽभ्वः॑ । स्वाः । अ॒भिष्ट॑यः । तम् । वृ॒त्र॒ऽहत्ये॑ । अनु॑ । त॒स्थुः॒ । ऊ॒तयः॑ । शुष्माः॑ । इन्द्र॑म् । अ॒वा॒ताः । अह्रु॑तऽप्सवः ॥

ऋषिः - सव्य आङ्गिरसः

देवता - इन्द्र:

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्वः१॒॑ स्वा अ॒भिष्ट॑यः। तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः॒ शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ॥

स्वर सहित पद पाठ

आ । यम् । पृ॒णन्ति॑ । दि॒वि । सद्म॑ऽबर्हिषः । स॒मु॒द्रम् । न । सु॒ऽभ्वः॑ । स्वाः । अ॒भिष्ट॑यः । तम् । वृ॒त्र॒ऽहत्ये॑ । अनु॑ । त॒स्थुः॒ । ऊ॒तयः॑ । शुष्माः॑ । इन्द्र॑म् । अ॒वा॒ताः । अह्रु॑तऽप्सवः ॥


स्वर रहित मन्त्र

आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः१ स्वा अभिष्टयः। तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः ॥


स्वर रहित पद पाठ

आ । यम् । पृणन्ति । दिवि । सद्मऽबर्हिषः । समुद्रम् । न । सुऽभ्वः । स्वाः । अभिष्टयः । तम् । वृत्रऽहत्ये । अनु । तस्थुः । ऊतयः । शुष्माः । इन्द्रम् । अवाताः । अह्रुतऽप्सवः ॥