rigveda/1/52/3

स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑। इन्द्रं॒ तम॑ह्वे स्वप॒स्य॑या धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥

सः । हि । द्व॒रः । द्व॒रिषु॑ । व॒व्रः । ऊध॑नि । च॒न्द्रऽबु॑ध्नः । मद॑ऽवृद्धः । म॒नी॒षिऽभिः॑ । इन्द्र॑म् । तम् । अ॒ह्वे॒ । सु॒ऽअ॒प॒स्यया॑ । धि॒या । मंहि॑ष्ठऽरातिम् । सः । हि । पप्रिः॑ । अन्ध॑सः ॥

ऋषिः - सव्य आङ्गिरसः

देवता - इन्द्र:

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑। इन्द्रं॒ तम॑ह्वे स्वप॒स्य॑या धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥

स्वर सहित पद पाठ

सः । हि । द्व॒रः । द्व॒रिषु॑ । व॒व्रः । ऊध॑नि । च॒न्द्रऽबु॑ध्नः । मद॑ऽवृद्धः । म॒नी॒षिऽभिः॑ । इन्द्र॑म् । तम् । अ॒ह्वे॒ । सु॒ऽअ॒प॒स्यया॑ । धि॒या । मंहि॑ष्ठऽरातिम् । सः । हि । पप्रिः॑ । अन्ध॑सः ॥


स्वर रहित मन्त्र

स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः। इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ॥


स्वर रहित पद पाठ

सः । हि । द्वरः । द्वरिषु । वव्रः । ऊधनि । चन्द्रऽबुध्नः । मदऽवृद्धः । मनीषिऽभिः । इन्द्रम् । तम् । अह्वे । सुऽअपस्यया । धिया । मंहिष्ठऽरातिम् । सः । हि । पप्रिः । अन्धसः ॥