rigveda/1/51/5
ऋषिः - सव्य आङ्गिरसः
देवता - इन्द्र:
छन्दः - विराड्जगती
स्वरः - निषादः
त्वम् । मा॒याभिः॑ । अप॑ । मा॒यिनः॑ । अ॒ध॒मः॒ । स्व॒धाभिः॑ । ये । अधि॑ । शुप्तौ॑ । अजु॑ह्वत । त्वम् । पिप्रोः॑ । नृ॒ऽम॒नः॒ । प्र । अ॒रु॒जः॒ । पुरः॑ । प्र । ऋ॒जिश्चा॑नम् । द॒स्यु॒ऽहत्ये॑षु । आ॒वि॒थ॒ ॥
त्वम् । मायाभिः । अप । मायिनः । अधमः । स्वधाभिः । ये । अधि । शुप्तौ । अजुह्वत । त्वम् । पिप्रोः । नृऽमनः । प्र । अरुजः । पुरः । प्र । ऋजिश्चानम् । दस्युऽहत्येषु । आविथ ॥