rigveda/1/51/4

त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑। वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥

त्वम् । अ॒पाम् । अ॒पि॒ऽधाना॑ । अ॒वृ॒णोः॒ । अप॑ । अधा॑रयः । पर्व॑ते । दानु॑ऽमत् । वसु॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । शव॑सा । अव॑धीः । अहि॑म् । आत् । इत् । सूर्य॑म् । दि॒वि । आ । अ॒रो॒ह॒यः॒ । दृ॒शे ॥

ऋषिः - सव्य आङ्गिरसः

देवता - इन्द्र:

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑। वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥

स्वर सहित पद पाठ

त्वम् । अ॒पाम् । अ॒पि॒ऽधाना॑ । अ॒वृ॒णोः॒ । अप॑ । अधा॑रयः । पर्व॑ते । दानु॑ऽमत् । वसु॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । शव॑सा । अव॑धीः । अहि॑म् । आत् । इत् । सूर्य॑म् । दि॒वि । आ । अ॒रो॒ह॒यः॒ । दृ॒शे ॥


स्वर रहित मन्त्र

त्वमपामपिधानावृणोरपाधारयः पर्वते दानुमद्वसु। वृत्रं यदिन्द्र शवसावधीरहिमादित्सूर्यं दिव्यारोहयो दृशे ॥


स्वर रहित पद पाठ

त्वम् । अपाम् । अपिऽधाना । अवृणोः । अप । अधारयः । पर्वते । दानुऽमत् । वसु । वृत्रम् । यत् । इन्द्र । शवसा । अवधीः । अहिम् । आत् । इत् । सूर्यम् । दिवि । आ । अरोहयः । दृशे ॥