rigveda/1/44/8

स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षपः॑ । कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर ॥

स॒वि॒तार॑म् । उ॒षस॑म् । अ॒श्विना॑ । भग॑म् । अ॒ग्निम् । विऽउ॑ष्टिषु । क्षपः॑ । कण्वा॑सः । त्वा॒ । सु॒तऽसो॑मासः । इ॒न्ध॒ते॒ । ह॒व्य॒ऽवाह॑म् । सु॒ऽअ॒ध्व॒र॒ ॥

ऋषिः - प्रस्कण्वः काण्वः

देवता - अग्निः

छन्दः - विराट्सतःपङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षपः॑ । कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर ॥

स्वर सहित पद पाठ

स॒वि॒तार॑म् । उ॒षस॑म् । अ॒श्विना॑ । भग॑म् । अ॒ग्निम् । विऽउ॑ष्टिषु । क्षपः॑ । कण्वा॑सः । त्वा॒ । सु॒तऽसो॑मासः । इ॒न्ध॒ते॒ । ह॒व्य॒ऽवाह॑म् । सु॒ऽअ॒ध्व॒र॒ ॥


स्वर रहित मन्त्र

सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः । कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥


स्वर रहित पद पाठ

सवितारम् । उषसम् । अश्विना । भगम् । अग्निम् । विऽउष्टिषु । क्षपः । कण्वासः । त्वा । सुतऽसोमासः । इन्धते । हव्यऽवाहम् । सुऽअध्वर ॥