rigveda/1/44/3
ऋषिः - प्रस्कण्वः काण्वः
देवता - अग्निः
छन्दः - निचृदुपरिष्टाद् बृहती
स्वरः - मध्यमः
अ॒द्य । दू॒तम् । वृ॒णी॒म॒हे॒ । वसु॑म् । अ॒ग्निम् । पु॒रु॒ऽप्रि॒यम् । धू॒मऽके॑तुम् । भाःऽऋ॑जीकम् । विऽउ॑ष्टिषु । य॒ज्ञाना॑म् । अ॒ध्व॒र॒ऽश्रिय॑म् ॥
अद्य । दूतम् । वृणीमहे । वसुम् । अग्निम् । पुरुऽप्रियम् । धूमऽकेतुम् । भाःऽऋजीकम् । विऽउष्टिषु । यज्ञानाम् । अध्वरऽश्रियम् ॥