rigveda/1/42/5
ऋषिः - कण्वो घौरः
देवता - पूषा
छन्दः - गायत्री
स्वरः - षड्जः
आ । तत् । ते॒ । द॒स्र॒ । म॒न्तु॒ऽमः॒ । पू॒ष॒न् । अवः॑ । वृ॒णी॒म॒हे॒ । येन॑ । पि॒तॄन् । अचो॑दयः ॥
आ । तत् । ते । दस्र । मन्तुऽमः । पूषन् । अवः । वृणीमहे । येन । पितॄन् । अचोदयः ॥