rigveda/1/40/7

को दे॑व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् । प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त्क्षयं॑ दधे ॥

कः । दे॒व॒ऽयन्त॑म् । अ॒श्न॒व॒त् । जन॑म् । कः । वृ॒क्तऽब॑र्हिषम् । प्रऽप्र॑ । दा॒श्वान् । प॒स्त्या॑भिः । अ॒स्थि॒त॒ । अ॒न्तः॒ऽवाव॑त् । क्षय॑म् । द॒धे॒ ॥

ऋषिः - कण्वो घौरः

देवता - बृहस्पतिः

छन्दः - आर्चीत्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

को दे॑व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् । प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त्क्षयं॑ दधे ॥

स्वर सहित पद पाठ

कः । दे॒व॒ऽयन्त॑म् । अ॒श्न॒व॒त् । जन॑म् । कः । वृ॒क्तऽब॑र्हिषम् । प्रऽप्र॑ । दा॒श्वान् । प॒स्त्या॑भिः । अ॒स्थि॒त॒ । अ॒न्तः॒ऽवाव॑त् । क्षय॑म् । द॒धे॒ ॥


स्वर रहित मन्त्र

को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् । प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ॥


स्वर रहित पद पाठ

कः । देवऽयन्तम् । अश्नवत् । जनम् । कः । वृक्तऽबर्हिषम् । प्रऽप्र । दाश्वान् । पस्त्याभिः । अस्थित । अन्तःऽवावत् । क्षयम् । दधे ॥