rigveda/1/4/2

उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब। गो॒दा इद्रे॒वतो॒ मदः॑॥

उप॑ । नः॒ । सव॑ना । आ । ग॒हि॒ । सोम॑स्य । सो॒म॒ऽपाः॒ । पि॒ब॒ । गो॒ऽदाः । इत् । रे॒वतः॑ । मदः॑ ॥

ऋषिः - मधुच्छन्दाः वैश्वामित्रः

देवता - इन्द्र:

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब। गो॒दा इद्रे॒वतो॒ मदः॑॥

स्वर सहित पद पाठ

उप॑ । नः॒ । सव॑ना । आ । ग॒हि॒ । सोम॑स्य । सो॒म॒ऽपाः॒ । पि॒ब॒ । गो॒ऽदाः । इत् । रे॒वतः॑ । मदः॑ ॥


स्वर रहित मन्त्र

उप नः सवना गहि सोमस्य सोमपाः पिब। गोदा इद्रेवतो मदः॥


स्वर रहित पद पाठ

उप । नः । सवना । आ । गहि । सोमस्य । सोमऽपाः । पिब । गोऽदाः । इत् । रेवतः । मदः ॥