rigveda/1/34/3

स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् । त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ॥

स॒मा॒ने । अह॑न् । त्रिः । अ॒व॒द्य॒ऽगो॒ह॒ना॒ । त्रिः । अ॒द्य । य॒ज्ञम् । मधु॑ना । मि॒मि॒क्ष॒त॒म् । त्रिः । वाज॑वतीः । इषः॑ । अ॒श्वि॒ना॒ । यु॒वम् । दो॒षा । अ॒स्मभ्य॑म् । उ॒षसः॑ । च॒ । पि॒न्व॒त॒म् ॥

ऋषिः - हिरण्यस्तूप आङ्गिरसः

देवता - अश्विनौ

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् । त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ॥

स्वर सहित पद पाठ

स॒मा॒ने । अह॑न् । त्रिः । अ॒व॒द्य॒ऽगो॒ह॒ना॒ । त्रिः । अ॒द्य । य॒ज्ञम् । मधु॑ना । मि॒मि॒क्ष॒त॒म् । त्रिः । वाज॑वतीः । इषः॑ । अ॒श्वि॒ना॒ । यु॒वम् । दो॒षा । अ॒स्मभ्य॑म् । उ॒षसः॑ । च॒ । पि॒न्व॒त॒म् ॥


स्वर रहित मन्त्र

समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् । त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् ॥


स्वर रहित पद पाठ

समाने । अहन् । त्रिः । अवद्यऽगोहना । त्रिः । अद्य । यज्ञम् । मधुना । मिमिक्षतम् । त्रिः । वाजवतीः । इषः । अश्विना । युवम् । दोषा । अस्मभ्यम् । उषसः । च । पिन्वतम् ॥