rigveda/1/34/2
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - अश्विनौ
छन्दः - निचृज्जगती
स्वरः - निषादः
त्रयः॑ । प॒वयः॑ । मधु॒ऽवाहे॑न । रथे॑ । सोम॑स्य । वे॒नाम् । अनु॑ । विश्वे॑ । इत् । वि॒दुः॒ । त्रयः॑ । स्क॒म्भासः॑ । स्क॒मि॒तासः॑ । आ॒ऽरभे॑ । त्रिः । नक्त॑म् । या॒थः । त्रिः । ऊँ॒ इति॑ । अ॒श्वि॒ना॒ । दिवा॑ ॥
त्रयः । पवयः । मधुऽवाहेन । रथे । सोमस्य । वेनाम् । अनु । विश्वे । इत् । विदुः । त्रयः । स्कम्भासः । स्कमितासः । आऽरभे । त्रिः । नक्तम् । याथः । त्रिः । ऊँ इति । अश्विना । दिवा ॥