rigveda/1/31/16

इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात्। आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम् ॥

इ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒षः॒ । नः॒ । इ॒मम् । अध्वा॑नम् । यम् । अगा॑म । दू॒रात् । आ॒पिः । पि॒ता । प्रऽम॑तिः । सो॒म्याना॑म् । भृमिः॑ । अ॒सि॒ । ऋ॒षि॒ऽकृत् । मर्त्या॑नाम् ॥

ऋषिः - हिरण्यस्तूप आङ्गिरसः

देवता - अग्निः

छन्दः - भुरिक्पङ्क्ति

स्वरः - धैवतः

स्वर सहित मन्त्र

इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात्। आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम् ॥

स्वर सहित पद पाठ

इ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒षः॒ । नः॒ । इ॒मम् । अध्वा॑नम् । यम् । अगा॑म । दू॒रात् । आ॒पिः । पि॒ता । प्रऽम॑तिः । सो॒म्याना॑म् । भृमिः॑ । अ॒सि॒ । ऋ॒षि॒ऽकृत् । मर्त्या॑नाम् ॥


स्वर रहित मन्त्र

इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात्। आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ॥


स्वर रहित पद पाठ

इमाम् । अग्ने । शरणिम् । मीमृषः । नः । इमम् । अध्वानम् । यम् । अगाम । दूरात् । आपिः । पिता । प्रऽमतिः । सोम्यानाम् । भृमिः । असि । ऋषिऽकृत् । मर्त्यानाम् ॥