rigveda/1/25/6

तदित्स॑मा॒नमा॑शाते॒ वेन॑न्ता॒ न प्र यु॑च्छतः। धृ॒तव्र॑ताय दा॒शुषे॑॥

तत् । इत् । स॒मा॒नम् । आ॒शा॒ते॒ इति॑ । वेन॑न्ता । न । प्र । यु॒च्छ॒तः॒ । धृ॒तऽव्र॑ताय । दा॒शुषे॑ ॥

ऋषिः - शुनःशेप आजीगर्तिः

देवता - वरुणः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

तदित्स॑मा॒नमा॑शाते॒ वेन॑न्ता॒ न प्र यु॑च्छतः। धृ॒तव्र॑ताय दा॒शुषे॑॥

स्वर सहित पद पाठ

तत् । इत् । स॒मा॒नम् । आ॒शा॒ते॒ इति॑ । वेन॑न्ता । न । प्र । यु॒च्छ॒तः॒ । धृ॒तऽव्र॑ताय । दा॒शुषे॑ ॥


स्वर रहित मन्त्र

तदित्समानमाशाते वेनन्ता न प्र युच्छतः। धृतव्रताय दाशुषे॥


स्वर रहित पद पाठ

तत् । इत् । समानम् । आशाते इति । वेनन्ता । न । प्र । युच्छतः । धृतऽव्रताय । दाशुषे ॥