rigveda/1/25/13
ऋषिः - शुनःशेप आजीगर्तिः
देवता - वरुणः
छन्दः - गायत्री
स्वरः - षड्जः
बिभ्र॑त् । द्रा॒पिम् । हि॒र॒ण्यय॑म् । वरु॑णः । व॒स्त॒ । निः॒ऽनिज॑म् । परि॑ । स्पशः॑ । नि । से॒दि॒रे॒ ॥
बिभ्रत् । द्रापिम् । हिरण्ययम् । वरुणः । वस्त । निःऽनिजम् । परि । स्पशः । नि । सेदिरे ॥