rigveda/1/25/1
ऋषिः - शुनःशेप आजीगर्तिः
देवता - वरुणः
छन्दः - गायत्री
स्वरः - षड्जः
यत् । चि॒त् । हि । ते॒ । विशः॑ । य॒था॒ । प्र । दे॒व॒ । व॒रु॒ण॒ । व्र॒तम् । मि॒नी॒मसि॑ । द्यवि॑ऽद्यवि ॥
यत् । चित् । हि । ते । विशः । यथा । प्र । देव । वरुण । व्रतम् । मिनीमसि । द्यविऽद्यवि ॥