rigveda/1/24/9

श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु। बाध॑स्व दू॒रे निर्ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत्॥

श॒तम् । ते॒ । रा॒ज॒न् । भि॒षजः॑ । स॒हस्र॑म् । उ॒र्वी । ग॒भी॒रा । सु॒ऽम॒तिः । ते॒ । अ॒स्तु॒ । बाध॑स्व । दू॒रे । निःऽऋ॑तिम् । परा॒चैः । कृ॒तम् । चि॒त् । एनः॒ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥

ऋषिः - शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः

देवता - वरुणः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु। बाध॑स्व दू॒रे निर्ऋ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत्॥

स्वर सहित पद पाठ

श॒तम् । ते॒ । रा॒ज॒न् । भि॒षजः॑ । स॒हस्र॑म् । उ॒र्वी । ग॒भी॒रा । सु॒ऽम॒तिः । ते॒ । अ॒स्तु॒ । बाध॑स्व । दू॒रे । निःऽऋ॑तिम् । परा॒चैः । कृ॒तम् । चि॒त् । एनः॒ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥


स्वर रहित मन्त्र

शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु। बाधस्व दूरे निर्ऋतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत्॥


स्वर रहित पद पाठ

शतम् । ते । राजन् । भिषजः । सहस्रम् । उर्वी । गभीरा । सुऽमतिः । ते । अस्तु । बाधस्व । दूरे । निःऽऋतिम् । पराचैः । कृतम् । चित् । एनः । प्र । मुमुग्धि । अस्मत् ॥