rigveda/1/24/10
ऋषिः - शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
देवता - वरुणः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
अ॒मी इति॑ । ये । ऋक्षाः॑ । निऽहि॑तासः । उ॒च्चा । नक्त॑म् । ददृ॑श्रे । कुह॑ । चि॒त् । दिवा॑ । ई॒युः॒ । अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ । वि॒ऽचाक॑शत् । च॒न्द्रमाः॑ । नक्त॑म् । ए॒ति॒ ॥
अमी इति । ये । ऋक्षाः । निऽहितासः । उच्चा । नक्तम् । ददृश्रे । कुह । चित् । दिवा । ईयुः । अदब्धानि । वरुणस्य । व्रतानि । विऽचाकशत् । चन्द्रमाः । नक्तम् । एति ॥