rigveda/1/21/4

उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम्। इ॒न्द्रा॒ग्नी एह ग॑च्छताम्॥

उ॒ग्रा । सन्ता॑ । ह॒वा॒म॒हे॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् । इ॒न्द्रा॒ग्नी इति॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् ॥

ऋषिः - मेधातिथिः काण्वः

देवता - इन्द्राग्नी

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम्। इ॒न्द्रा॒ग्नी एह ग॑च्छताम्॥

स्वर सहित पद पाठ

उ॒ग्रा । सन्ता॑ । ह॒वा॒म॒हे॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् । इ॒न्द्रा॒ग्नी इति॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् ॥


स्वर रहित मन्त्र

उग्रा सन्ता हवामह उपेदं सवनं सुतम्। इन्द्राग्नी एह गच्छताम्॥


स्वर रहित पद पाठ

उग्रा । सन्ता । हवामहे । उप । इदम् । सवनम् । सुतम् । इन्द्राग्नी इति । आ । इह । गच्छताम् ॥