rigveda/1/191/2

अ॒दृष्टा॑न्हन्त्याय॒त्यथो॑ हन्ति पराय॒ती। अथो॑ अवघ्न॒ती ह॒न्त्यथो॑ पिनष्टि पिंष॒ती ॥

अ॒दृष्टा॑न् । ह॒न्ति॒ । आ॒ऽय॒ती । अथो॒ इति॑ । ह॒न्ति॒ । प॒रा॒ऽय॒ती । अथो॒ इति॑ । अ॒व॒ऽघ्न॒ती । ह॒न्ति॒ । अथो॒ इति॑ । पि॒न॒ष्टि॒ । पिं॒ष॒ती ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - अबोषधिसूर्याः

छन्दः - भुरिगुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

अ॒दृष्टा॑न्हन्त्याय॒त्यथो॑ हन्ति पराय॒ती। अथो॑ अवघ्न॒ती ह॒न्त्यथो॑ पिनष्टि पिंष॒ती ॥

स्वर सहित पद पाठ

अ॒दृष्टा॑न् । ह॒न्ति॒ । आ॒ऽय॒ती । अथो॒ इति॑ । ह॒न्ति॒ । प॒रा॒ऽय॒ती । अथो॒ इति॑ । अ॒व॒ऽघ्न॒ती । ह॒न्ति॒ । अथो॒ इति॑ । पि॒न॒ष्टि॒ । पिं॒ष॒ती ॥


स्वर रहित मन्त्र

अदृष्टान्हन्त्यायत्यथो हन्ति परायती। अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती ॥


स्वर रहित पद पाठ

अदृष्टान् । हन्ति । आऽयती । अथो इति । हन्ति । पराऽयती । अथो इति । अवऽघ्नती । हन्ति । अथो इति । पिनष्टि । पिंषती ॥