rigveda/1/191/12

त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन्। ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥

त्रिः । स॒प्त । वि॒ष्पु॒लि॒ङ्ग॒काः । वि॒षस्य॑ । पुष्य॑म् । अ॒क्ष॒न् । ताः । चि॒त् । नु । न । म॒र॒न्ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - अबोषधिसूर्याः

छन्दः - विराड्ब्राह्म्यनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन्। ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥

स्वर सहित पद पाठ

त्रिः । स॒प्त । वि॒ष्पु॒लि॒ङ्ग॒काः । वि॒षस्य॑ । पुष्य॑म् । अ॒क्ष॒न् । ताः । चि॒त् । नु । न । म॒र॒न्ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥


स्वर रहित मन्त्र

त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन्। ताश्चिन्नु न मरन्ति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥


स्वर रहित पद पाठ

त्रिः । सप्त । विष्पुलिङ्गकाः । विषस्य । पुष्यम् । अक्षन् । ताः । चित् । नु । न । मरन्ति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥