rigveda/1/191/10
ऋषिः - अगस्त्यो मैत्रावरुणिः
देवता - अबोषधिसूर्याः
छन्दः - निचृद्ब्राह्म्यनुष्टुप्
स्वरः - गान्धारः
सूर्ये॑ । वि॒षम् । आ । स॒जा॒मि॒ । दृति॑म् । सुरा॑ऽवतः । गृ॒हे । सः । चि॒त् । नु । न । म॒रा॒ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥
सूर्ये । विषम् । आ । सजामि । दृतिम् । सुराऽवतः । गृहे । सः । चित् । नु । न । मराति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥