rigveda/1/187/6

त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम्। अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥

त्वे । पि॒तो॒ इति॑ । म॒हाना॑म् । दे॒वाना॑म् । मनः॑ । हि॒तम् । अका॑रि । चारु॑ । के॒तुना॑ । तव॑ । अहि॑म् । अव॑सा । अ॒व॒धी॒त् ॥

ऋषिः - अगस्त्यो मैत्रावरुणिः

देवता - ओषधयः

छन्दः - भुरिगुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तम्। अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥

स्वर सहित पद पाठ

त्वे । पि॒तो॒ इति॑ । म॒हाना॑म् । दे॒वाना॑म् । मनः॑ । हि॒तम् । अका॑रि । चारु॑ । के॒तुना॑ । तव॑ । अहि॑म् । अव॑सा । अ॒व॒धी॒त् ॥


स्वर रहित मन्त्र

त्वे पितो महानां देवानां मनो हितम्। अकारि चारु केतुना तवाहिमवसावधीत् ॥


स्वर रहित पद पाठ

त्वे । पितो इति । महानाम् । देवानाम् । मनः । हितम् । अकारि । चारु । केतुना । तव । अहिम् । अवसा । अवधीत् ॥